46. अन्नपानविध्यध्यायः

free bootstrap theme
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
धन्वन्तरिमभिवाद्य सुश्रुत उवाच- प्रागभिहितः ‘प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं; तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः; आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भगवान् धन्वन्तरिः- अथ खलु वत्स सुश्रुत! यथाप्रश्नमुच्यमानमुपधारयस्व- ||३||
तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पक- दीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः शालयः ||४||
मधुरा वीर्यतः शीता लघुपाका बलावहाः |
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ||५||
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः |
चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ||६||
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः |७|
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ||७||
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ||८||
रसे पाके च मधुराः शमना वातपित्तयोः |
शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ||९||
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः |
मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः ||१०||
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः |११|
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ||११||
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटाण्डकपारावतकपाटलप्रभृतयो व्रीहयः ||१२||
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः |
अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः ||१३||
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः |
तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ||१४||
दग्धायामवनौ जाताः शालयो लघुपाकिनः |
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ||१५||
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः |
किञ्चित्सतिक्तमधुराः पवनानलवर्धनाः ||१६||
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः |
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ||१७||
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः |
अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ||१८||
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः |
तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ||१९||
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः |२०|
इति शालिवर्गः |
अथ कुधान्यवर्गः |
तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ||२०||
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दीमुखी- कुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः ||२१||
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः |
श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ||२२||
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः |
कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ||२३||
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः |
यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ||२४||
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा |२५|
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ||२५||
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः |
बद्धमूत्राः कफहराः कषाया वातकोपनाः ||२६||
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ||२७||
कषायमधुराः शीताः कटुपाका मरुत्कराः |
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ||२८||
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः |
प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ||२९||
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः |३०|
मकुष्ठकाः कृमिकराः... |३०|
... कलायाः प्रचुरानिलाः ||३०||
आढकी कफपित्तघ्नी नातिवातप्रकोपणी |३१|
वातलाः शीतमधुराः सकषाया विरूक्षणाः ||३१||
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः |
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ||३२||
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः |३३|
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ||३३||
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः |
सन्तर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ||३४||
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता |
स्वादुर्विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ||३५||
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव |३६|
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ||३६||
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः |
शुक्राश्मरीगुल्मनिषूदनश्च साङ्ग्राहिकः पीनसकासहन्ता ||३७||
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च |
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ||३८||
ईषत्कषायो मधुरः सतिक्तः साङ्ग्राहिकः पित्तकरस्तथोष्णः |
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ||३९||
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च |४०|
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ||४०||
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी |
व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ||४१||
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च |
मेदोमरुत्तृड्‌हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ||४२||
एभिर्गुणैर्हीनतरैस्तु किञ्चिद्विद्याद्यवेभ्योऽतियवानशेषैः |४३|
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ||४३||
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च |४४|
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ||४४||
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च |४५|
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ||४५||
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च |४६|
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ||४६||
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च |४७|
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ||४७||
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः |४८|
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ||४८||
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके |
पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ||४९||
तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि |५०|
अनार्तवं व्याधिहतमपर्यागतमेव च |
अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ||५०||
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् |५१|
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ||५१||
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः |
कालप्रमाणसंस्कारमात्राः सम्परिकीर्तिताः ||५२||
इति कुधान्यवर्गः |
अथ मांसवर्गः |
अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः; तद्यथा- जलेशया, आनूपा, ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति |
एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः |
ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति |
तत्र जाङ्गलवर्गोऽष्टविधः |
तद्यथा- जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहाः, पर्णमृगा, बिलेशया, ग्राम्याश्चेति |
तेषां जङ्घालविष्किरौ प्रधानतमौ ||५३||
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ||५४||
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा |
सङ्ग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ||५५||
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः |
शीतलो बद्धविण्मूत्र सुगन्धिर्हरिणो लघुः ||५६||
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते |
यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ||५७||
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका |
सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ||५८||
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्र- कुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्याहला विष्किराः ||५९||
लघवः शीतमधुराः कषाया दोषनाशनाः |६०|
सङ्ग्राही दीपनश्चैव कषायमधुरो लघुः |
लावः कटुविपाकश्च सन्निपाते तु पूजितः ||६०||
ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः |
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ||६१||
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः |
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ||६२||
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः |६३|
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ||६३||
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः |६४|
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ||६४||
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् |६५|
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ||६५||
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः |
वातरोगक्षयवमीविषमज्वरनाशनः ||६६||
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डिमाणवकशतपत्रक- मातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः , प्रतुदाः ||६७||
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः |
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ||६८||
सर्वदोषकरस्तेषां भेदाशी मलदूषकः |६९|
कषायस्वादुलवणो गुरुः काणकपोतकः ||६९||
रक्तपित्तप्रशमनः कषायविशदोऽपि च |
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ||७०||
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः |७१|
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ||७१||
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ||७२||
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः |
उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ||७३||
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ||७४||
एते सिंहादिभिः सर्वे समाना वायसादयः |
रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ||७५||
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ||७६||
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः |
सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ||७७||
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ||७८||
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः |
वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ||७९||
कषायमधुरस्तेषां शशः पित्तकफापहः |
नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ||८०||
गोधा विपाके मधुरा कषायकटुका स्मृता |
वातपित्तप्रशमनी बृंहणी बलवर्धनी ||८१||
शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः |
प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः ||८२||
दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः |
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ||८३||
दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः |
मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ||८४||
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः ||८५||
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः |
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ||८६||
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः |
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ||८७||
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु |८८|
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ||८८||
श्वासकासप्रतिश्यायविषमज्वरनाशनम् |
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ||८९||
औरभ्रवत्सलवणं मांसमेकशफोद्भवम् |९०|
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ||९०||
दूरे जनान्तनिलया दूरे पानीयगोचराः |
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ||९१||
अतीवासन्ननिलयाः समीपोदकगोचराः |
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ||९२||
आनूपवर्गस्तु पञ्चविधः |
तद्यथा- कूलचराः, प्लवाः, कोषस्थाः, पादिनो, मत्स्याश्चेति ||९३||
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखड्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ||९४||
वातपित्तहरा वृष्या मधुरा रसपाकयोः |
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनः ||९५||
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः |
स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ||९६||
गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् |
विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ||९७||
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः |
निद्रापुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ||९८||
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम् |
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||९९||
तथा चमरमांसं तु स्निग्धं मधुरकासजित् |
विपाके मधुरं चापि वातपित्तप्रणाशनम् ||१००||
सृमरस्य तु मांसं च कषायानुरसं स्मृतम् |
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||१०१||
स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु |
श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् ||१०२||
कफघ्नं खड्गिपिशितं कषायमनिलापहम् |
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ||१०३||
गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम् |
विपाके मधुरं चापि रक्तपित्तविनाशनम् ||१०४||
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुख- नन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः सङ्घातचारिणः ||१०५||
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः |
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ||१०६||
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः |
बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् ||१०७||
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः ||१०८||
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ||१०९||
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः |
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ||११०||
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः |
शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ||१११||
मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च ||११२||
तत्र नादेयाः- रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः ||११३||
नादेया मधुरा मत्स्या गुरवो मारुतापहाः |
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ||११४||
कषायानुरसस्तेषां शष्पशैवालभोजनः |
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ||११५||
पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः |
दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ |
मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||११६||
सरस्तडागसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः |
महाह्रदेषु बलिनः, स्वल्पेऽम्भस्यबलाः स्मृताः ||११७||
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवार(रु)लकमकरगर्गरचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः ||११८||
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः |
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ||११९||
बलावहा विशेषेण मांसाशित्वात् समुद्रजाः |१२०|
समुद्रजेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः ||१२०||
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ |
स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्या गुणाधिकाः ||१२१||
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः |
सरस्तडागजानां तु विशेषेण शिरो लघु ||१२२||
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः |
किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ||१२३||
अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसम्भवाः |
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् ||१२४||
इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः ||१२५||
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्याणि, यस्माद्विगतव्यापन्नापहतपरिणताल्पासम्पूर्णवीर्यत्वाद्दोषकराणि भवन्ति; एभ्योऽन्येषामुपादेयं मांसमिति ||१२६||
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् |
विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् ||१२७||
कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम् |
क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ||१२८||
स्त्रियश्चतुष्पात्सु, पुमांसो विहङ्गेषु, महाशरीरेष्वल्पशरीराः, अल्पशरीरेषु महाशरीराः, प्रधानतमाः; एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराःप्रधानतमाः ||१२९||
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः |
तद्यथा- रक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः, तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ||१३०||
शिरःस्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः |
गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् ||१३१||
सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः |
पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् ||१३२||
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् |
पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् ||१३३||
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम् |
बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् ||१३४||
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम् |१३५|
जलजानूपजा ग्राम्या क्रच्यादैकशफास्तथा ||१३५||
प्रसहा बिलवासाश्च ये च जङ्घालसञ्ज्ञिताः |
प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् |
अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा ||१३६||
प्रामाणाधिकास्तु स्वजातावल्पसारा गुरवश्च |
सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीत; प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति ||१३७||
भवति चात्र-
चरः शरीरावयवाः स्वभावो धातवः क्रिया |
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ||१३८||
इति मांसवर्गः |
अथ फलवर्गः |
अत ऊर्ध्वं फलान्युपदेक्ष्यामः |
तद्यथा- दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्ग- जम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि ||१३९||
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः |
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च ||१४०||
कषायानुरसं तेषां दाडिमं नातिपित्तलम् |
दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् ||१४१||
द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च |
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् ||१४२||
अम्लं समधुरं तिक्तं कषायं कटुकं सरम् |
चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् ||१४३||
हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः |
कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् ||१४४||
कर्कन्धुकोलबदरमामं पित्तकफावहम् |
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ||१४५||
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु |
सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ||१४६||
कषायं स्वादु सङ्ग्राहि शीतं सिञ्चितिकाफलम् |
आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् ||१४७||
कफानिलहरं पक्वं मधुराम्लरसं गुरु |
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ||१४८||
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम् |
त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा ||१४९||
स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित् |
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ||१५०||
दीपनं लघु सङ्ग्राहि गुल्मार्शोघ्नं तु केसरम् |
शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते ||१५१||
अरुचौ च विशेषेण रसस्तस्योपदिश्यते |१५२|
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् ||१५२||
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् |
कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु ||१५३||
पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्धनम् |
बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति ||१५४||
आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम् |१५५|
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् ||१५५||
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम् |
वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् ||१५६||
हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् |
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ||१५७||
पारावतं समधुरं रुच्यमत्यग्निवातनुत् |
गरदोषहरं नीपं प्राचीनामलकं तथा ||१५८||
वातापहं तिन्तिडीकमामं पित्तबलासकृत् |
ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ||१५९||
तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते |
अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् ||१६०||
अम्लं समधुरं हृद्यं विशदं भक्तरोचनम् |
वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ||१६१||
तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् |
वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत् |
ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१६२||
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गु- परूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ||१६३||
फलान्येतानि शीतानि कफपित्तहराणि च |
सङ्ग्राहकाणि रूक्षाणि कषायमधुराणि च ||१६४||
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम् |
कषायं मधुरं साम्लं नातिमारुतकोपनम् ||१६५||
अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् |
स्निग्धं स्वादु कषायं च राजादनफलं गुरु ||१६६||
कषायं मधुरं रूक्षं तोदनं कफवातजित् |
अम्लोष्णं लघु सङ्ग्राहि स्निग्धं पित्ताग्निवर्धनम् ||१६७||
आमं कषायं सङ्ग्राहि तिन्दुकं वातकोपनम् |
विपाके गुरु सम्पक्वं मधुरं कफपित्तजित् ||१६८||
मधुरं च कषायं च स्निग्धं सङ्ग्राहि बाकुलम् |
स्थिरीकरं च दन्तानां विशदं फलमुच्यते ||१६९||
सकषायं हिमं स्वादु धान्वनं कफवातजित् |
तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च ||१७०||
विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु |
अत्यम्लमीषन्मधुरं कषायानुरसं लघु ||१७१||
वातघ्नं पित्तजनमामं विद्यात् परुषकम् |
तदेव पक्वं मधुरं वातपित्तनिबर्हणम् ||१७२||
विपाके मधुरं शीतं रक्तपित्तप्रसादनम् |
पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् ||१७३||
कफानिलहरं तीक्ष्णं स्निग्धं सङ्ग्राहि दीपनम् |
कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् ||१७४||
विद्यात्तदेव सम्पक्वं मधुरानुरसं गुरु |
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ||१७५||
बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् |
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ||१७६||
तालनालिकेरपनसमोचप्रभृतीनि ||१७७||
स्वादुपाकरसान्याहुर्वातपित्तहराणि च |
बलप्रदानि स्निग्धानि बृंहणानि हिमानि च ||१७८||
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित् |
तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् ||१७९||
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् |
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् ||१८०||
पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु |
मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् |
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ||१८१||
द्राक्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि ||१८२||
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च |१८३|
तेषां द्राक्षा सरा स्वर्या मधुरा स्निग्धशीतला ||१८३||
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा |
हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् ||१८४||
केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते |
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ||१८५||
रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत् |
बृंहणीयमहृद्यं च मधूककुसुमं गुरु |
वातपित्तोपशमनं फलं तस्योपदिश्यते ||१८६||
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि ||१८७||
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च |
बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च ||१८८||
कषायं कफपित्तघ्नं किञ्चित्तिक्तं रुचिप्रदम् |
हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ||१८९||
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम् |
विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ||१९०||
विपाके मधुरं चापि रक्तपित्तप्रसादनन् |१९१|
ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१९१||
शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु |
स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् ||१९२||
शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् |
गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् ||१९३||
करीराक्षिकपीलूनि तृणशून्यफलानि च |
स्वादुतिक्तकटूष्णानि कफवातहराणि च ||१९४||
तिक्तं पिन्त्तकरं तेषां सरं कटुविपाकि च |
तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ||१९५||
आरुष्करं तौवरकं कषायं कटुपाकि च |
उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम् |
कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ||१९६||
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् |
अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् ||१९७||
रूक्षोष्णं कटुकं पाके लघु वातकफापहम् |
तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ||१९८||
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् |
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ||१९९||
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम् |
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ||२००||
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् |
कषायमीषन्मधुरं किञ्चित् पूगफलं सरम् ||२०१||
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् |
कक्को(ङ्को)लकं लवङ्गं च तिक्तं कटु कफापहम् ||२०२||
लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् |२०३|
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः ||२०३||
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः |२०४|
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ||२०४||
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः |
बैभीतको मदकरः कफमारुतनाशनः ||२०५||
कषायमधुरो मज्जा कोलानां पित्तनाशनः |
तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ||२०६||
बीजपूरकशम्याकमज्जा कोशाम्रसम्भवः |
स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः ||२०७||
यस्य यस्य फलस्येह वीर्यं भवति यादृशम् |
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ||२०८||
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् |
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् |
ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् ||२०९||
व्याधितं कृमिजुष्टं च पाकातीतमकालजम् |
वर्जनीयं फलं सर्वमपर्यागतमेव च ||२१०||
इति फलवर्गः |
अथ शाकवर्गः |
शाकान्यत ऊर्ध्वं वक्ष्यामः |
तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि ||२११||
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च |
सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ||२१२||
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् |
शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ||२१३||
सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् |
दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ||२१४||
अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला |
तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् ||२१५||
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ||२१६||
स्वादुतिक्तरसान्याहुः कफवातकराणि च |
सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ||२१७||
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम् |
तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् ||२१८||
एर्वारुकं सकर्कारु सम्पक्वं कफवातकृत् |
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ||२१९||
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् |
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ||२२०||
पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धक- कासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिका- वर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि ||२२१||
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च |
कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ||२२२||
तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा |
शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी ||२२३||
स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च |
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ||२२४||
नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम् |
गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ||२२५||
नागरं कफवातघ्नं विपाके मधुरं कटु |
वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ||२२६||
कफानिलहरं स्वर्यं विबन्धानाहशूलनुत् |
कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्रकं स्मृतम् ||२२७||
लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित् |
कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् ||२२८||
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम् |
कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ||२२९||
कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका |२३०|
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता ||२३०||
आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् |
सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी ||२३१||
दोषघ्नी कटुका किञ्चित् तिक्ता स्रोतोविशोधनी |२३२|
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ||२३२||
सुराभिर्दीपनो रुच्यो मुखवैशद्यकारकः |
कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ||२३३||
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः |
तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः ||२३४||
कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः |
कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः ||२३५||
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः |
विशेषतः पित्तहरः सतिक्तः कासमर्दकः ||२३६||
कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः |
मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ||२३७||
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च |
त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च ||२३८||
चित्रकस्तिलपर्णी च कफशोफहरे लघू |
वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ||२३९||
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी |
सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ||२४०||
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् |
तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ||२४१||
त्रिदोषशमनं शुष्कं विषदोषहरं लघु |
विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ||२४२||
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः |
तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु ||२४३||
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः |
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ||२४४||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् |
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ||२४५||
नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च |
बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं च विवर्धयेत्तु ||२४६||
स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च |
स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः ||२४७||
कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु |
कषायानुरसं चैव विपाके मधुरं च तत् ||२४८||
चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(न्दी)भल्लातकच्छगलान्त्री- वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि ||२४९||
कषायस्वादुतिक्तानि रक्तपित्तहराणि च |
कफघ्नान्यनिलं कुर्युः सङ्ग्राहीणि लघूनि च ||२५०||
लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः |
कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा ||२५१||
चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता |
वृक्षादनी वातहरा, फञ्जी त्वल्पबला मता ||२५२||
क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः |
शीताः सङ्ग्राहिणः शस्ता रक्तपित्तातिसारिणाम् ||२५३||
पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि ||२५४||
उष्णानि स्वादुतिक्तानि वातप्रशमनानि च |२५५|
तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् ||२५५||
तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि ||२५६||
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च |
मन्दवातकफान्याहू रक्तपित्तहराणि च ||२५७||
मधुरो रसपाकाभ्यां रक्तपित्तमदापहः |
तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः ||२५८||
स्वादुपाकरसा वृष्या वातपित्तमदापहा |
उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा ||२५९||
कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः |
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः ||२६०||
चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत् |
वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता |
शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् ||२६१||
मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा- काकमाचीप्रपुन्नाडावल्गुजसतीनबृहतीकण्टकारिकाफल- पटोलवार्ताककारवेल्लककटुकिकाकेबु(म्बु)कोरुबूकपर्पटककिराततिक्त- कर्कोटकारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृतीनि ||२६२||
रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च |
कुष्ठमेहज्वरश्वासकासारुचिहराणि च ||२६३||
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा |
लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ||२६४||
अविदाही त्रिदोषघ्नः सङ्ग्राही सुनिषण्णकः |
अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः ||२६५||
ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम् |
नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् ||२६६||
कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च |
फलानि बृहतीनां तु कटुतिक्तलघूनि च ||२६७||
कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् |
पटोलं कटुकं पाके वृष्यं रोचनदीपनम् ||२६८||
कफवातहरं तिक्तं रोचनं कटुकं लघु |
वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम् |
तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च ||२६९||
आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः |
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ||२७०||
कफापहं शाकमुक्तं वरुणप्रपुनाड(ट)योः |
रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् ||२७१||
दीपनं कालशाकं तु गरदोषहरं कटु |
कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु ||२७२||
वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत् |
ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता |
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी ||२७३||
लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः ||२७४||
स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः |
लवणानुरसा रूक्षाः सक्षारा वातलाः सराः ||२७५||
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका |२७६|
सङ्ग्राहि शीतलं चापि लघु दोषापहं तथा |
राजक्षवकशाकं तु शटीशाकं च तद्विधम् ||२७६||
स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम् |२७७|
भेदनं मधुरं रूक्षं कालायमतिवातलम् ||२७७||
स्रंसनं कटुकं पाके लघु वातकफापहम् |
शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् ||२७८||
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम् |
सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् ||२७९||
स्रंसनं कटुकं पाके कषायं वह्निदीपनम् |
वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् ||२८०||
अथ पुष्पवर्गः |
कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च; वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च ||२८१||
आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते ||२८२||
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च ||२८३||
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च |
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ||२८४||
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम् |
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम् |
तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले ||२८५||
सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम् |२८६|
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ||२८६||
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च |
श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् ||२८७||
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् |
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ||२८८||
यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा |२८९|
मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च ||२८९||
क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि सृष्टमूत्रपुरीषाणि च ||२९०||
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम् |
विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् ||२९१||
वेणोः करीराः कफला मधुरा रसपाकतः |
विदाहिनो वातकराः सकषाया विरूक्षणाः ||२९२||
उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि |
तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च |
इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च |
तद्वदेवोष्णं कारीषं कषायं वातकोपनं च, (वेणुजातं कषायं वातकोपनं च,) भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः ||२९३||
पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानि सर्वदोषप्रकोपणानि ||२९४||
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः |२९५|
सिण्डाकी वातला सार्द्रा रुचिष्याऽनलदीपनी ||२९५||
विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम् |
सकषायं च सर्वं हि स्वादु शाकमुदाहृतम् |
पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् ||२९६||
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम् |
वर्जयेत् पत्रशाकं तद्यदकालविरोहि च ||२९७||
इति शाकवर्गः |
अथ कन्दवर्गः |
कन्दानात ऊर्ध्वं वक्ष्यामः- विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुक- हस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ||२९८||
रक्तपित्तहराण्याहुः शीतानि मधुराणि च |
गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च ||२९९||
मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः |
विदारीकन्दो बल्यश्च पित्तवातहरश्च सः ||३००||
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी |
महती चैव हृद्या च मेधाग्निबलवर्धिनी ||३०१||
ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी |
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ||३०२||
अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम् |
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ||३०३||
गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ |
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ||३०४||
सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत् |३०५|
वेणोः करीरा गुरवः कफमारुतकोपनाः ||३०५||
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ||३०६||
मान(ण)कं स्वादु शीतं च गुरु चापि प्रकीर्तितम् |
स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ||३०७||
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः |
कषायाः पित्तशमना विपाके मधुरा हिमाः ||३०८||
वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः |
मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ||३०९||
तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ||३१०||
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा |
शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ||३११||
बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम् |
कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ||३१२||
अथ लवणवर्गः |
अथ लवणानि- सैन्धवसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि कटुपाकीनि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ||३१३||
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् |
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ||३१४||
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च |
भेदन स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ||३१५||
सक्षारं दीपनं सूक्ष्मं शूलहृद्रोगनाशनम् |
रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ||३१६||
लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु |
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ||३१७||
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च |
वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ||३१८||
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् |
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ||३१९||
कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम् |
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ||३२०||
ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम् |
लवणं कटुकं छेदि विहितं कटु चोच्यते ||३२१||
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः |
गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः |
क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः |
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ |
शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ||३२३||
उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः |
मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ||३२४||
विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः |
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ||३२५||
सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम् |
दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ||३२६||
रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत् |
ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ||३२७||
सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित् |
वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ||३२८||
कटु क्रिमिघ्नं लवणं त्रपु सीसं च लेखनम् |
मुक्ताविद्रुमवज्रेन्द्रवैदूर्यस्फटिकादयः ||३२९||
चक्षुष्या मणयः शीता लेखना विषसूदनाः |
पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ||३३०||
इति लवणादिवर्गः |
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् |
आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्द्रव्यमनल्पबुद्धिः ||३३१||
षष्टिका यवगोधूमा लोहिता ये च शालयः |
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ||३३२||
लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः |
मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ||३३३||
दाडिमामलकं द्राक्षा खर्जूरं सपरूषकम् |
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ||३३४||
सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः |
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ||३३५||
गव्यं क्षीरं घृतं श्रेष्ठं, सैन्धवं लवणेषु च |
धात्रीदाडिममम्लेषु, पिप्पली नागरं कटौ ||३३६||
तिक्ते पटोलवार्ताकं, मधुरे घृतमुच्यते |
क्षौद्रं, पूगफलं श्रेष्ठं कषाये सपरूषकम् ||३३७||
शर्करेक्षुविकारेषु, पाने मध्वासवौ तथा |
परिसंवत्सरं धान्यं, मांसं वयसि मध्यमे ||३३८||
अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् |
फलं पर्यागतं, शाकमशुष्कं तरुणं नवम् ||३३९||
अथ कृतान्नवर्गः |
अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् |
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ||३४०||
वातानुलोमनो हृद्यः पिप्पलीनागरायुतः |३४१|
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ||३४१||
क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी |३४२|
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ||३४२||
पथ्या स्यादुरसा लघ्वी दीपनी क्षुत्तृषापहा |३४३|
हृद्या सन्तर्पणी वृष्या बृंहणी बलवर्धनी ||३४३||
शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा |३४४|
सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ||३४४||
विलेपी बहुसिक्था स्याद्यवागूर्विरलद्रवा |३४५|
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ||३४५||
कफपित्तकरी बल्या कृशराऽनिलनाशनी |३४६|
धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ||३४६||
स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः |३४७|
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ||३४७||
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः |३४८|
स्नेहैर्मांसैः फलैः कन्दैर्विदलाम्लैश्च संयुताः ||३४८||
गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः |३४९|
सुस्विन्नो निस्तुषो भृष्ट ईषत् सूपो लघुर्हितः ||३४९||
स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् |
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ||३५०||
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम् |
स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ||३५१||
सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु |३५२|
तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् ||३५२||
विद्यात्पित्तकफोद्रेकी बलमांसाग्निवर्धनम् |३५३|
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ||३५३||
रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम् |३५४|
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ||३५४||
परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु |३५५|
तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ||३५५||
ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः |३५६|
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ||३५६||
परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम् |
मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ||३५७||
लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् |
अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ||३५८||
प्रीणनः प्राणजननः श्वासकासक्षयापहः |
वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ||३५९||
स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् |
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ||३६०||
आप्यायनः संहननः शुक्रदो बलवर्धनः |३६१|
स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ||३६१||
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् |
क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ||३६२||
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम् |
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ||३६३||
दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः |३६४|
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ||३६४||
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् |
ऐकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः ||३६५||
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः |३६६|
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ||३६६||
ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः |३६७|
स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ||३६७||
रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत् |३६८|
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ||३६८||
कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते |३६९|
मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ||३६९||
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते |३७०|
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ||३७०||
पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ |३७१|
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ||३७१||
हन्ति मूलकयूषस्तु कफमेदोगलग्रहान् |
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ||३७२||
तूणीप्रतूणीकासाश्मगुल्ममेदःकफावहः |३७३|
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ||३७३||
प्राणाग्निजननो मूर्च्छामेदोघ्नो वातपित्तजित् |३७४|
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ||३७४||
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः |३७५|
सर्वधान्यकृतस्तद्वद्बृंहणः प्राणवर्धनः ||३७५||
खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ |३७६|
बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ||३७६||
दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः |
तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ||३७७||
खडाः खडयवाग्वश्च षा(खा)डवाः पानकानि च |
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ||३७८||
अस्नेहलवणं सर्वमकृतं कटुकैर्विना |
विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ||३७९||
अथ गोरसधान्याम्लफलाम्लैरम्लितं च यत् |
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ||३८०||
दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः |३८१|
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ||३८१||
सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च |३८२|
तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ||३८२||
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः |
तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ||३८३||
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी |३८४|
स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ||३८४||
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः |
नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ||३८५||
मन्थः सद्योबलकरः पिपासाश्रमनाशनः |
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ||३८६||
शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् |
द्राक्षामधूदकयुतः कफरोगनिबर्हणः ||३८७||
वर्गत्रयेणोपहितो मलदोषानुलोमनः |३८८|
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ||३८८||
तदेव खण्डमृद्वीकाशर्करासहितं पुनः |
साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ||३८९||
मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् |
परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ||३९०||
द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः |
पानकानां यथायोगं गुरुलाघवमादिशेत् ||३९१||
इति कृतान्नवर्गः |
अथ भक्ष्यवर्गः |
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः |३९२|
भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ||३९२||
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः |३९३|
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ||३९३||
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः |३९४|
बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ||३९४||
अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः |३९५|
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ||३९५||
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः |३९६|
रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ||३९६||
गुरुर्मृष्टतरमश्चैव सट्टकः प्राणवर्धनः |३९७|
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ||३९७||
वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते |३९८|
बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ||३९८||
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः |३९९|
मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ||३९९||
वेसवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः |४००|
पाललाः श्लेष्मजननाः, शष्कुल्यः कफपित्तलाः ||४००||
वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः |
विदाहिनो नातिबला गुरवश्च विशेषतः ||४०१||
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः |
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ||४०२||
बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः |४०३|
कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ||४०३||
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः |
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ||४०४||
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः |
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ||४०५||
विदाहिनस्तैलकृता गुरवः कटुपाकिनः |
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ||४०६||
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः |
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ||४०७||
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः |
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ||४०८||
सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः |४०९|
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ||४०९||
उदावर्तहरो वाट्यः कासपीनसमेहनुत् |४१०|
धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ||४१०||
शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः |
पीताः सद्योबलकरा भेदिनः पवनापहाः ||४११||
गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात् |
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ||४१२||
लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः |
बल्याः कषायमधुरा लघवस्तृण्मलापहाः ||४१३||
तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः |
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ||४१४||
पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः |
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ||४१५||
सन्धानकृत्पिष्टमामं तण्डुलं कृमिमेहनुत् |४१६|
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ||४१६||
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः |४१७|
द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य च ||४१७||
यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा |
अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ||४१८||
इति भक्ष्यवर्गः |
अतः सर्वानुपानान्युपदेक्ष्यामः |
अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति |
तथाम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ||४१९||
शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् |
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ||४२०||
व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि |
सर्वानुपानेषु वरं वदन्ति मैध्यं यदम्भः शुचिभाजनस्थम् ||४२१||
लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः |
सङ्क्षेप एषोऽभिहितोऽनुपाने... |४२२|
... ष्वतः परं विस्तरतोऽभिधास्ये ||४२२||
उष्णोदकानुपानं तु स्नेहानामथ शस्यते |
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ||४२३||
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् |
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ||४२४||
दधिपायसमद्यार्तिविषजुष्टे तथैव च |
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ||४२५||
पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम् |
युद्धाध्वातपसन्तापविषमद्यरुजासु च ||४२६||
माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा |
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ||४२७||
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते |
क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ||४२८||
सुरा कृशानां स्थूलानामनुपानं मधूदकम् |
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ||४२९||
स्निग्धोष्णं मारुते पथ्यं, कफे रूक्षोष्णमिष्यते |
अनुपानं हितं चापि पित्ते मधुरशीतलम् ||४३०||
हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा |
अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ||४३१||
अतः परं तु वर्गाणामनुपानं पृथक् पृथक् |
प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ||४३२||
तत्र पूर्वशस्यजातानां बदराम्लं, वैदलानां धान्याम्लं, जङ्घालानां धन्वजानां च पिप्पल्यासवः, विष्किराणां कोलबदरासवः, प्रतुदानां क्षीरवृक्षासवः, गुहाशयानां खर्जूरनालिकेरासवः, प्रसहानामश्वगन्धासवः, पर्णमृगाणां कृष्णगन्धासवः, बिलेशयानां फलासवः , एकशफानां त्रिफलासवः, अनेकशफानां खदिरासवः, कूलचराणां शृङ्गाटककशेरुकासवः, कोशवासिनां पादिनां च स एव, प्लवानामिक्षुरसासवः, नादेयानां मत्स्यानां मृणालासवः, सामुद्राणां मातुलुङ्गासवः, अम्लानां फलानां पद्मोत्पलकन्दासवः, कषायाणां दाडिमवेत्रासवः, मधुराणां त्रिकटुकयुक्तः खण्डासवः, तालफलादीनां धान्याम्लं, कटुकानां दूर्वानलवेत्रासवः, पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः, कूष्माण्डादीनां दार्वीकरीरासवः, चुच्चुप्रभृतीनां लोध्रासवः, जीवन्त्यादीनां त्रिफलासवः, कुसुम्भशाकस्य स एव, मण्डूकपर्ण्यादीनां महापञ्चमूलासवः, तालमस्तकादीनामम्लफलासवः, सैन्धवादीनां सुरासव आरनालं च, तोयं वा सर्वत्रेति ||४३३||
भवन्ति चात्र-
सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम् |४३४|
सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ||४३४||
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् |४३५|
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ||४३५||
यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति |
रोचनं बृंहणं वृष्यं दोषसङ्घातभेदनम् ||४३६||
तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् |
दीपनं दोषशमनं पिपासाच्छेदनं परम् ||४३७||
बल्यं वर्णकरं सम्यगनुपानं सदोच्यते |४३८|
तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ||४३८||
पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् |४३९|
स्थिरतां गतमल्किन्नमन्नमद्रवपायिनाम् ||४३९||
भवत्याबाधजननमनुपानमतः पिबेत् |४४०|
न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ||४४०||
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः |४४१|
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ||४४१||
प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् |
स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ||४४२||
गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते |
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ||४४३||
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः |
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ||४४४||
बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः |
कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ||४४५||
इत्यनुपानवर्गः |
अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु |४४६|
आप्तास्थितमसङ्कीर्णं शुचि कार्यं महानसम् ||४४६||
तत्राप्तैर्गुणसम्पन्नं भक्ष्यमन्नं सुसंस्कृतम् |
शुचौ देशे सुसङ्गुप्तं समुपस्थापयेद्भिषक् ||४४७||
विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः |
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ||४४८||
वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् |
घृतं कार्ष्णायसे देयं, पेया देया तु राजते ||४४९||
फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु |
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ||४५०||
प्रद्रवाणि रसांश्चैवं राजतेषूपहारयेत् |
कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ||४५१||
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः |
पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् ||४५२||
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च |
दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ||४५३||
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे |
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ||४५४||
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च |
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ||४५५||
प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः |
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ||४५६||
सर्वान् गुडविकारांश्च रागषाडवसट्टकान् |
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ||४५७||
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् |
भोक्तारं विजने रम्ये निःसम्पाते शुभे शुचौ ||४५८||
सुगन्धपुष्परचिते समे देशे च भोजयेत् |४५९|
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ||४५९||
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् |४६०|
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ||४६०||
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् |
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ||४६१||
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् |
घनं पूर्वं समश्नीयात्, केचिदाहुर्विपर्ययम् ||४६२||
आदावन्ते च मध्ये च भोजनस्य तु शस्यते |
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ||४६३||
मृणालबिसशालूककन्देक्षुप्रभृतीनि च |
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ||४६४||
सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः |
काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्रवोत्तरम् ||४६५||
बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः |४६६|
काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ||४६६||
लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् |
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ||४६७||
सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च |४६८|
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ||४६८||
तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु |
येषु चापि भवेयुश्च दिवसा भृशमायताः ||४६९||
तेषु तत्कालविहितमपराह्णे प्रशस्यते |
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ||४७०||
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् |४७१|
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ||४७१||
अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः |
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ||४७२||
अतीतकालं भुञ्जानो वायुनोपहतेऽनले |
कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ||४७३||
हीनमात्रमसन्तोषं करोति च बलक्षयम् |
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ||४७४||
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् |
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ||४७५||
विभज्य दोषकालादीन् कालयोरुभयोरपि |४७६|
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ||४७६||
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् |
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ||४७७||
अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते |४७८|
यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ||४७८||
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः |
विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ||४७९||
स्वादुना तस्य रसनं प्रथमेनातितर्पितम् |
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ||४८०||
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् |
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ||४८१||
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् |४८२|
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ||४८२||
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः |
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ||४८३||
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु |
भुक्तमात्रे कफश्चापि,... |४८४|
... तस्माद्भुक्तेरितं कफम् ||४८४||
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः |
पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ||४८५||
फलैः कटुकषायैर्वा मुखवैशद्यकारकैः |
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ||४८६||
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः |
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ||४८७||
शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान् |
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ||४८८||
शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः |
अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ||४८९||
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् |
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ||४९०||
न चैकरससेवायां प्रसज्येत कदाचन |
शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ||४९१||
एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा |४९२|
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ||४९२||
पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् |४९३|
मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः ||४९३||
पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः |
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति |४९४|
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ||४९४||
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते |
द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ||४९५||
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते |४९६|
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ||४९६||
पिण्डीकृतमसङ्क्लिन्नं विदाहमुपगच्छति |४९७|
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ||४९७||
विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते |४९८|
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ||४९८||
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः |
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||४९९||
अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च |
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||५००||
ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन |
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
माधुर्यमन्नं गतमामसञ्ज्ञं विदग्धसञ्ज्ञं गतमम्लभावम् |
किञ्चिद्विपक्वं, भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ||५०२||
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य |
रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ||५०३||
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः |
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||५०४||
तत्रामे लङ्घनं कार्यं, विदग्धे वमनं हितम् |
विष्टब्धे स्वेदनं पथ्यं, रसशेषे शयीत च ||५०५||
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना |
कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ||५०६||
लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||५०७||
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् |
बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ||५०८||
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते |
त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ||५०९||
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति |
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ||५१०||
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य |
द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ||५११||
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले |
प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ||५१२||
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति |
भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ||५१३||
अत उर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् |
कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ||५१४||
ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित् |
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ||५१५||
स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा |
रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ||५१६||
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः |
विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ||५१७||
दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा |
सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ||५१८||
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा |
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ||५१९||
दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे |
द्रवः प्रक्लेदनः, सान्द्रः स्थूलः स्याद्बन्धकारकः ||५२०||
श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा |
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ||५२१||
दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः |
सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः ||५२२||
व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते |
विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ||५२३||
आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् |
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ||५२४||
गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः |५२५|
सम्प्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ||५२५||
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः |
विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ||५२६||
अविदग्धः कफं, पित्तं विदग्धः, पवनं पुनः |
सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ||५२७||
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः |५२८|
स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ||५२८||
कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च |
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ||५२९||
दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् |
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ||५३०||
हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः |
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ||५३१||
इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः |
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ||५३२||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ||४६||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां प्रथमं सूत्रस्थानं समाप्तम् |