45. द्रवद्रव्यविध्यध्यायः

amp template
अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ||३|| 
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादि षु स्थानेष्ववस्थितमिति ||४|| 
तत्र, ‘लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि सम्भवन्ति’ इत्येके भाषन्ते ||५|| 
तत्तु न सम्यक्; पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण | 
तत्र, स्वलक्षणभूयिष्ठायां [१] भूमावम्लं लवणं च; अम्बुगुणभूयिष्ठायां मधुरं; तेजोगुणभूयिष्ठायां कटुकं तिक्तं च; वायुगुणभूयिष्ठायां कषायम्; आकाशगुणभूयिष्ठायामव्यक्तरसम्, अव्यक्तं [२] ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात्, तत्पेयमान्तरीक्षालाभे ||६||
तत्रान्तरीक्षं चतुर्विधम् | 
तद्यथा- धारं, कारं, तौषारं, हैममिति |
तेषां धारं प्रधानं, लघुत्वात्; तत् पुनर्द्विविधं- गाङ्गं, सामुद्रं चेति |
तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति |
तयोर्द्वयोरपि परीक्षणं कुर्वीत- शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात्, तन्नोपादेयम् |
सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति |
गाङ्गं पुनः प्रधानं, तदुपाददीताश्वयुजे मासि |
शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् |
तत् सर्वकालमुपयुञ्जीत, तस्यालाभे भौमम् |
तच्चाकाशगुणबहुलम् |
तत् पुनः सप्तविधम् |
तद्यथा- कौपं, नादेयं, सारसं, ताडागं, प्रास्रवणम्, औद्भिदं, चौण्ट्यमिति ||७||
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात्; शरदि सर्वं, प्रसन्नत्वात्; हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्रवणं वा; ग्रीष्मेऽप्येवं; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ||८|| 
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् | 
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ||९||
योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् |
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ||१०||
तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् | 
तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति |
तत्र, खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः, पङ्कसिकताशैवालबहुवर्णता रूपदोषः; व्यक्तरसता रसदोषः; अनिष्टगन्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स विर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति |
त एते आन्तरिक्षे न सन्ति ||११||
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं, नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ||१२|| 
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा | 
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ||१३||
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् | 
दोषसञ्जननं ह्येतन्नाददीताहितं तु तत् ||१४||
व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम् |
श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ||१५||
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च |
अन्यान्वा [३] विषमान्रोगान्प्राप्नुयादचिरेण सः ||१६||
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति | 
तद्यथा- कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ||१७||
पञ्च निक्षेपणानि भवन्ति | 
तद्यथा- फलकं, त्र्यष्टकं, मुञ्जवलय, उदकमञ्चिका, शिक्यं चेति ||१८||
सप्त शीतीकरणानि भवन्ति; तद्यथा- प्रवातस्थापनम्, उदकप्रक्षेपणं, यष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्बनं चेति ||१९|| 
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् | 
अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ||२०||
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात्; पूर्वाभिमुखास्तु न प्रशस्यन्ते, गुरूदकत्वात्; दक्षिणाभिमुखा नातिदोषलाः, साधारणत्वात् | 
तत्र सह्यप्रभवाःकुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ||२१||
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः | 
गुर्व्यः शैवालसञ्छन्नाः कलुषा मन्दगाश्च याः ||२२||
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः | 
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ||२३||
तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि, तत्र ह्यमलत्वं शैत्यं चाधिकं भवति, स एव चापां परो गुण इति ||२४|| 
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः | 
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ||२५||
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने | 
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ||२६||
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् | 
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ||२७||
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये | 
भ्रमक्लमपरीतेषु तमके वमथौ तथा ||२८||
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते |२९|
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ||२९|| 
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे |
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ||३०||
नादेयं वातलं रूक्षं दीपनं लघु लेखनम् | 
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ||३१||
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु |
ताडागं वातलं स्वादु कषायं कटुपाकि च ||३२||
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् |
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ||३३||
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च |
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ||३४||
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् |
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ||३५||
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् |
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ||३६||
सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् |३७|
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ||३७|| 
एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् |
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ||३८||
दीपनं स्वादु शीतं च तोयं साधारणं लघु |३९|
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ||३९|| 
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा |४०|
यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ||४०|| 
चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् |४१|
न च पर्युषितं देयं कदाचिद्वारि जानता ||४१|| 
अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे |४२|
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ||४२|| 
सन्निपातसमुत्थे च शृतशीतं प्रशस्यते |४३|
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ||४३|| 
वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु |४४|
दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ||४४|| 
शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च |४५|
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ||४५|| 
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा |
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ||४६||
इति जलवर्गः |
अथ क्षीरवर्गः | 
गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् |
अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ||४७||
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु | 
मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु |
सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ||४८||
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात्, वातपित्तशोणितमानसेष्वपि विकारेष्वविरुद्धं, जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोष- पाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं, पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं सन्धानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ||४९|| 
अल्पाभिष्यन्दि गोक्षीरं [४] स्निग्धं गुरु रसायनम् | 
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ||५०||
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् |५१|
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ||५१|| 
दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् [५] |
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ||५२||
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः |५३|
रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ||५३|| 
शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् |५४|
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ||५४|| 
पथ्यं केवलवातेषु कासे चानिलसम्भवे |५५|
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ||५५|| 
निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु |५६|
उष्णमैकशफं बल्यं शाखावातहरं पयः ||५६|| 
मधुराम्लरसं रूक्षं लवणानुरसं लघु |५७|
नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ||५७|| 
नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् |५८|
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ||५८|| 
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् |५९|
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ||५९|| 
रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा |६०|
दिवाकराभितप्तानां व्यायामानिलसेवनात् ||६०|| 
श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम् |६१|
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ||६१|| 
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् |६२| 
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ||६२|| 
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा |६३| 
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ||६३|| 
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् | 
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ||६४||
इति क्षीरवर्गः |
अथ दधिवर्गः | 
दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ||६५||
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् | 
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||६६||
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् |६७| 
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ||६७|| 
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |६८|
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ||६८|| 
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् |६९|
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ||६९|| 
बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् |७०|
विपाके कटु सक्षारं गुरु [६] भेद्यौष्ट्रिकं दधि ||७०|| 
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च |७१|
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ||७१|| 
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् |७२|
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ||७२|| 
रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् |७३|
स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ||७३|| 
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् |७४|
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ||७४|| 
कषायानुरसं नाग्या दधि वर्चोविवर्धनम् |७५|
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ||७५|| 
विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् |७६|
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ||७६|| 
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |७७|
शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ||७७|| 
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |७८|
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ||७८|| 
वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः |७९|
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ||७९|| 
दीपनीयं लघुतरं सकषायं रुचिप्रदम् |८०|
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ||८०|| 
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते |८१|
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ||८१|| 
अम्लं कषायं मधुरमवृष्यं कफवातनुत् |
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् |
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||८२||
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च |
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||८३||
इति दधिवर्गः |
अथ तक्रवर्गः | 
तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघुरूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलभेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्रशमनमवृष्यं च ||८४||
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् | 
नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे |
यत्तु सस्नेहमजलं मथितं घोलमुच्यते ||८५||
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले | 
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ||८६||
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च | 
मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ||८७||
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च; 
अम्लं वातघ्नं पित्तकरं च ||८८||
वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् | 
पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ||८९||
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका |९०| 
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ||९०|| 
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः |९१| 
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ||९१|| 
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं सङ्ग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽर्दितापहं, चिरोत्थितं गुरु कफमेदोविवर्धनं [७] बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ||९२|| 
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं सङ्ग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ||९३|| 
सन्तानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ||९४|| 
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः | 
विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ||९५||
इति तक्रवर्गः |
अथ घृतम् | 
घृतं तु मधुरं सौम्यं मृदु शीतवीर्यमनभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ||९६||
विपाके मधुरं शीतं वातपित्तविषापहम् | 
चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ||९७||
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् | 
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ||९८||
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् | 
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ||९९||
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् | 
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ||१००||
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् | 
कफेऽनिले योनिदोषे शोषे [८] कम्पे च तद्धितम् ||१०१||
पाके लघूष्णवीर्यं च कषायं कफनाशनम् | 
दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ||१०२||
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् | 
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ||१०३||
कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु | 
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ||१०४||
क्षीरघृतं पुनः सङ्ग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ||१०५|| 
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ||१०६|| 
सर्पिः पुराणं सरं कटुविपाकं [९] त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते ||१०७|| 
भवति चात्र-
पुराणं तिमिरश्वासपीनसज्वरकासनुत् |
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ||१०८||
(एकादशशतं चैव वत्सरानुषितं घृतम् |
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु [१०] महाघृतम् ||१०९||
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः |
बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ||११०||
सर्वभूतहरं चैव घृतमेतत् प्रशस्यते) ||१११||
इति घृतवर्गः |
अथ तैलानि | 
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं [११] क्रिमिघ्नमशितपित्तजननं [१२] योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च, तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिता भिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ||११२||
तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे |
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ||११३||
एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ||११४|| 
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलु- करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ||११५|| 
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् | 
कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ||११६||
कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु |
कफमेदोनिलहरं लेखनं कटु दीपनम् ||११७||
कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु |
कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ||११८||
विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् |
रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ||११९||
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदार- सूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ||१२०|| 
मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ||१२१|| 
तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ||१२२|| 
सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ||१२३|| 
तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ||१२४|| 
यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च ||१२५|| 
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ||१२६|| 
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ||१२७|| 
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् | 
गुणान् कर्म च विज्ञाय फलानीव [१३] विनिर्दिशेत् ||१२८||
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः | 
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ||१२९||
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते | 
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ||१३०||
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः, जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः, प्रतुदविष्किराणां श्लेष्मघ्नाः | 
तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ||१३१||
इति तैलवर्गः |
अथ मधुवर्गः | 
मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं(सङ्ग्राहि [१४] ) चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च; तत्तु लघुत्वात् कफघ्नं, पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् ||१३२||
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च | 
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ||१३३||
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात् | 
वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ||१३४||
पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसञ्ज्ञितम् |
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ||१३५||
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् |
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ||१३६||
स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् |
श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ||१३७||
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् |
कषायं कटु पाके च बल्यं तिक्तमवातकृत् ||१३८||
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् |
कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च ||१३९||
छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् |१४०|
बृंहणीयं मधु नवं नातिश्लेष्महरं समम् ||१४०|| 
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् |१४१|
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ||१४१|| 
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् | 
नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ||१४२||
तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां मक्षिकासम्भवत्वाच्चानुष्णोपचारम् [१५] ||१४३|| 
उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु |
उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ||१४४||
तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससम्भवाच्च |
उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ||१४५||
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् | 
अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ||१४६||
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते | 
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ||१४७||
इति मधुवर्गः |
अथेक्षुवर्गः | 
इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति |
ते चानेकविधाः |
तद्यथा- ||१४८||
पौण्ड्रको भीरुकश्चैव [१६] वंशकः श्वेतपोरकः [१७] |
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः [१८] सूचिपत्रकः ||१४९||
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् |
इत्येता जातयः स्थौल्याद्, ... |१५०|
... गुणान् वक्ष्याम्यतः परम् ||१५०|| 
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः |
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ||१५१||
आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः |
वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वातहा ||१५२||
कान्तारतापसाविक्षू वंशकानुगतौ मतौ |
एवङ्गुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ||१५३||
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः |
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ||१५४||
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः |१५५|
अतीव मधुरो मूले मध्ये मधुर एव तु ||१५५|| 
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ||१५६||
अविदाही कफकरो वातपित्तनिवारणः | 
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ||१५७||
गुरुर्विदाही [१९] विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः |१५८| 
पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ||१५८|| 
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ||१५९|| 
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च ||१६०|| 
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः |१६१| 
सपुराणोऽधिकगुणो [२०] गुडः पथ्यतमः स्मृतः ||१६१|| 
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ||१६२|| 
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा | 
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ||१६३||
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः | 
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ||१६४||
सारस्थिता सुविमला निःक्षारा च यथा यथा | 
तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः ||१६५||
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी [२१] कषायमधुरा मधुरविपाका च ||१६६|| 
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ||१६७|| 
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः | 
रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ||१६८||
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् | 
कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ||१६९||
इतीक्षुवर्गः |
अथ मद्यवर्गः | 
सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् |
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ||१७०||
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् |
विकासि सृष्टविण्मूत्रं... |१७१|
... शृणु तस्य विशेषणम् ||१७१|| 
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा |
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ||१७२||
मधुरं तद्धि रूक्षं च कषायानुरसं लघु |
लघुपाकि सरं शोषविषमज्वरनाशनम् ||१७३||
मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् | 
तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ||१७४||
कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् |१७५|
कासार्शोग्रहणीदोषमूत्राघातानिलापहा ||१७५|| 
स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी |१७६|
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ||१७६|| 
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा |१७७|
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ||१७७|| 
प्रसन्ना कफवातार्शोविबन्धानाहनाशनी |१७८|
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी |१७८| 
विष्टम्भिनी सुरा गुर्वी... ||१७९||
... श्लेष्मलं तु मधूलकम् ||१७८|| 
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ||१७९|| 
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः |१८०| 
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ||१८०|| 
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् |१८१|
बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ||१८१|| 
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः |१८२|
कषायो मधुरः शीधुर्गौडः पाचनदीपनः ||१८२|| 
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः | 
वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ||१८३||
तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः | 
शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ||१८४||
कर्शनः शीतरसिकः श्वयथूदरनाशनः | 
वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽर्शसां हितः ||१८५||
आक्षिकः पाण्डुरोगघ्नो व्रण्यः सङ्ग्राहको लघुः | 
कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ||१८६||
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः |१८७| 
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ||१८७|| 
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः |१८८|
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ||१८८|| 
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् |१८९|
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ||१८९|| 
कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः |१९०|
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः [२२] ||१९०|| 
शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः | 
रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः ||१९१||
निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् |१९२| 
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ||१९२|| 
अनिष्टगन्धि विरसमहृद्यं च विदाहि च |१९३|
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ||१९३|| 
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् |१९४|
अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ||१९४|| 
बहुदोषहरश्चैव दोषाणां शमनश्च सः |
दीपनः कफवातघ्नः सरः पित्ताविरोधनः ||१९५||
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः |१९६|
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ||१९६|| 
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् |१९७| 
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् ||१९७|| 
बुद्ध्या [२३] यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् |१९८|
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ||१९८|| 
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् |
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ||१९९||
तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषं तु यद्भवेत् |
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ||२००||
कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः |
पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ||२०१||
अहृद्यं पेलवं [२४] पूति कृमिलं विरसं च यत् |
तथा पर्युषितं चापि विद्यादनिलकोपनम् ||२०२||
सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् |२०३|
चिरस्थितं जातरसं दीपनं कफवातजित् ||२०३|| 
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् |२०४|
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ||२०४|| 
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् |
विचाल्येन्द्रियचेतांसि [२५] वीर्यं मदयतेऽचिरात् ||२०५||
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः | 
अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च ||२०६||
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः | 
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७||
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् |
कलहं सानुबन्धं [२६] तु करोति पुरुषे मदः ||२०८||
अशौचनिद्रामात्सर्यागम्यागमनलोलताः |
असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९||
रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम् | 
वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ||२१०||
तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च |२११|
तद्वत्तदासुतं सर्वं रोचनं च विशेषतः ||२११|| 
गौडानि रसशुक्तानि मधुशुक्तानि यानि च | 
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ||२१२||
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् | 
ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ||२१३||
धान्याम्लं [२७] धान्ययोनित्वाज्जीवनं दाहनाशनम् | 
स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु ||२१४||
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् |
मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ||२१५||
दीपनं जरणं भेदि हितमास्थापनेषु च |
समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ||२१६||
इति मध्यवर्गः |
अथ मूत्राणि | 
मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्शदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ||२१७||
भवतश्चात्र-
तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु |
शोधनं कफवातघ्नं कृमिमेदोविषापहम् ||२१८||
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् |
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ||२१९||
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् | 
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ||२२०||
शूलगुल्मोदरानाहविरेकास्थापनादिषु |
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ||२२१||
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु | 
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ||२२२||
कासश्वासापहं शोफकामलापाण्डुरोगनुत् | 
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ||२२३||
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् | 
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ||२२४||
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् | 
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ||२२५||
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् | 
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ||२२६||
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् | 
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ||२२७||
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् | 
अर्शोघ्नं कारभं मूत्रं... |२२८|
... मानुषं च विषापहम् ||२२८|| 
द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु | 
कालदेशविभागज्ञो नृपतेर्दातुमर्हति ||२२९||
इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ||४५||