34. युक्तसेनीयाध्यायः

develop your own website
अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
नृपतेर्युक्तसेनस्य परानभिजिगीषतः | 
भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ||३||
विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः |
रक्षितव्यो विशेषेण विषादेव नराधिपः ||४||
पन्थानमुदकं छायां भक्तं यवसमिन्धनम् | 
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ||५||
तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते |६| 
एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ||६|| 
तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः |७|
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ||७|| 
रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ |८|
ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ||८|| 
पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् |९|
सङ्करः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् ||९|| 
प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः |१०|
पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता ||१०|| 
आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः |
तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ||११||
चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः |१२|
स्कन्धावारे च महति राजगेहादनन्तरम् ||१२|| 
भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः |
तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् ||१३||
उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः |
स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः ||१४||
वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः |१५|
वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः ||१५|| 
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः |
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ||१६||
व्याधिमल्पेन कालेन महान्तमपि साधयेत् |१७|
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ||१७|| 
उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे |१८|
वैद्यस्तु गुणवानेकस्तारयेदातुरां सदा ||१८|| 
प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि |१९|
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती ||१९|| 
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः |
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ||२०||
सत्यधर्मपरो यश्च स भिषक् पाद उच्यते |२१|
आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ||२१|| 
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते |२२|
प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ||२२|| 
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् |
दोषघ्नमग्लानिकरमविकारि विपर्यये |
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ||२३||
स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे | 
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ||२४||
इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ||३४||