1. वेदोत्पत्त्यध्यायः

web design templates
अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य(र)गोपुररक्षितसुश्रुतप्रभृतय ऊचुः ||३|| 
भगवन्! शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः पीडा भवति, तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम्, अत्रायत्तमैहिकमामुष्मिकं च श्रेयः; तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ||४|| 
तानुवाच भगवान्- स्वागतं वः; सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ||५|| 
इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ||६|| 
तद्यथा- शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ||७|| 
अथास्य प्रत्यङ्गलक्षणसमासः |८| 
तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं , यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च (१) |८| 
शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् (२) |८| 
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् (३) |८| 
भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् (४) |८| 
कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् (५) |८| 
अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च (६) |८| 
रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च (७) |८| 
वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थं च (८) ||८|| 
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै किमुच्यतामिति ||९|| 
त ऊचुः- अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ||१०|| 
स उवाचैवमस्त्विति ||११||
त ऊचुर्भूयोऽपि भगवन्तम्- अस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै चोपदिश्यमानं वयमप्युधारयिष्यामः ||१२|| 
स उवाचैवमस्त्विति ||१३||
वत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजनं- व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं च ||१४|| 
‘आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति’ इत्यायुर्वेदः ||१५|| 
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय ||१६|| 
एतद्ध्यङ्गं प्रथमं, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च | 
श्रूयते हि यथा- “रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः- भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः, भवद्भ्यां यज्ञस्य शिरः सन्धातव्यमिति |
तावूचतुरेवमस्त्विति |
अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् |
ताभ्यां यज्ञस्य शिरः संहितम्” इति ||१७||
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च ||१८|| 
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ||१९|| 
ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, तस्मादश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादहं, मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ||२०|| 
भवति चात्र- 
अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् |
शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् ||२१||
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते | 
तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात ; लोको हि द्विविधः स्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः ; तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२||
तद्दुःखसंयोगा व्याधय उच्यन्ते ||२३|| 
ते चतुर्विधाः- आगन्तवः, शारीराः, मानसाः, स्वाभाविकाश्चेति ||२४|| 
तेषामागन्तवोऽभिघातनिमित्ताः |२५| 
शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः |२५| 
मानसास्तु क्रोधशोकभयहर्षविषादेर्ष्याभ्यसूयादैन्यमात्सर्यकामलोभप्रभृतय इच्छाद्वेषभेदैर्भवन्ति |२५| 
स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृ(भृ)तयः ||२५|| 
त एते मनःशरीराधिष्ठानाः ||२६|| 
तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहेतवः ||२७|| 
प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च | 
स षट्सु रसेष्वायत्तः; रसाः पुनर्द्रव्याश्रयाः; द्रव्याणि पुनरोषधयः |
तास्तु द्विविधाः- स्थावरा जङ्गमाश्च ||२८||
तासां स्थावराश्चतुर्विधाः- वनस्पतयो, वृक्षा, वीरुध, ओषधय इति | 
तासु, अपुष्पाः फलवन्तो वनस्पतयः, पुष्पफलवन्तो वृक्षाः, प्रतानवत्यः स्तम्बिन्यश्च वीरुधः, फलपाकनिष्ठा ओषधय इति ||२९||
जङ्गमा खल्वपि चतुर्विधाः- जरायुजाण्डजस्वेदजोद्भिज्जाः | 
तत्र पशुमनुष्यव्यालादयो जरायुजाः, खगसर्पसरीसृपप्रभृतयोऽण्डजाः, कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः, इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ||३०||
तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः; जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ||३१|| 
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ||३२|| 
कालकृताःप्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ||३३|| 
त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ||३४|| 
भवन्ति चात्र श्लोकाः- 
शारीराणां विकाराणामेष वर्गश्चतुर्विधः |
प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ||३५||
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि | 
मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ||३६||
शरीरपतितानां तु शारीरवदुपक्रमः |
मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ||३७||
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् | 
तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः, व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः, औषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः, क्रियाग्रहणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि, कालग्रहणात् सर्वक्रियाकालानामादेशः ||३८||
भवति चात्र- 
बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् |
सविंशमध्यायशतमस्य व्याख्या भविष्यति ||३९||
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु | 
तत्र सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान् वक्ष्यामः ||४०||
भवति चात्र- 
स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् |
स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ||४१||
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः ||१||