23. कृत्याकृत्यविध्यध्यायः

free web design templates
अथातः कृत्याकृत्यविधिमध्यायं [१] व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तत्र, वयःस्थानां दृढानां प्राणवतां सत्त्ववतां (आत्मवतां) च सुचिकित्स्या व्रणाः; एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं [२] तस्य सुखसाधनीयतमाः | 
तत्र, वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति; दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति; प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते; सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति; तस्मादेतेषां [३] सुखसाधनीयतमाः ||३||
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ||४|| 
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया [४] व्रणाः ||५|| 
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चिकित्स्याः; अधोभागाश्चोर्ध्वभागनिर्वाहिणो [५] , रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च, भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ||६|| 
कुष्ठिनां [६] विषजुष्टानां शोषिणां मधुमेहिनाम् |
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ||७||
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि, ग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते, शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्करोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च [७] याप्याः ||८|| 
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा | 
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ||९||
यापनीयं विजानीयात् क्रिया धारयते तु यम् | 
क्रियायां तु निवृत्तायां सद्य एव विनश्यति ||१०||
प्राप्ता [८] क्रियां धारयति याप्यव्याधितमातुरम् |
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ||११||
अत ऊर्ध्वमसाध्यान् वक्ष्यामः- मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः [९] , केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः, अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलास्राविणो वा मध्योन्नताः, केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः, वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः, पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः, त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः, (क्षीणमांसानां च [१०] ) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः, सशब्दवातवाहिनश्च शिरःकण्ठस्थाः, क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः, भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ||१२|| 
भवति चात्र- 
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् |
आगन्तुस्तु [११] व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ||१३||
अमर्मोपहिते [१२] देशे सिरासन्ध्यस्थिवर्जिते | 
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् ||१४||
क्रमेणोपचयं [१३] प्राप्य [१४] ; धातूननुगतः शनैः | 
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ||१५||
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च |
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ||१६||
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते | 
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ||१७||
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः | 
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ||१८||
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः | 
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ||१९||
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् | 
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ||२०||
दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः | 
हर्षात् क्रोधाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते ||२१||
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः ||२३||