अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा |
तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः |
तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा- किमयं सौम्यस्तैजस? इति |
अत्रोच्यते- स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ||३||
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ||४||
श्लोकौ चात्र भवतः-
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् |
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ||५||
रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते |
तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ||६||
आर्तवं शोणितं त्वाग्नेयम्, अग्नीषोमीयत्वाद्गर्भस्य ||७||
पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ||८||
विस्रता द्रवता रागः स्पन्दनं लघुता तथा |
भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ||९||
रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते |
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते ||१०||
तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता ||११||
रसजं पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः |
अन्नात्पानाञ्च मतिमानाचाराञ्चाप्यतन्द्रितः ||१२||
तत्र ‘रस’ गतौ धातुः, अहरहर्गच्छतीत्यतो रसः ||१३||
स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते; एवं मासेन रसः शुक्रं स्त्रीणां चार्तवं भवति ||१४||
भवति चात्र-
अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये |
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः ||१५||
स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् ||१६||
वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं विरेचयन्ति ||१७||
यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं, नैव नास्तीति; अथ चास्ति, सतां भावानामभिव्यक्तिरिति ज्ञात्वा , केवलं सौक्ष्म्यान्नाभिव्यज्यते; स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति; एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति, रोमराज्यादयश्च विशेषा नारीणाम् ||१८||
स एवान्नरसो वृद्धानां (जरा) परिपक्वशरीरत्वादप्रीणनो भवति ||१९||
त एते शरीरधारणाद्धातव इत्युच्यन्ते ||२०||
तेषां क्षयवृद्धी शोणितनिमित्ते, तस्मात्तदधिकृत्य वक्ष्यामः |
तत्र, फेनिलमरुणं कृष्णं परुषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं; नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं; गैरिकोदकप्रतीकाशं स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं; सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं; द्विदोषलिङ्गं संसृष्टम् ||२१||
इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् ||२२||
विस्राव्याण्यन्यत्र वक्ष्यामः ||२३||
अथाविस्राव्याः- सर्वाङ्गशोफः, क्षीणस्य चाम्लभोजननिमित्तः, पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः ||२४||
शस्त्रविस्रावणं द्विविधं- प्रच्छानं , सिराव्यधनं च ||२५||
तत्र, ऋज्वसङ्कीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ||२६||
तत्र, दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ||२७||
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसङ्गिनाम् |
निद्राभिभूतभीतानां नृणां नासृक् प्रवर्तते ||२८||
तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् ||२९||
अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्विस्रावितमतिप्रवर्तते ; तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ||३०||
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते |
यवागूं प्रति पीतस्य शोणितं मोक्षयेद्भिषक् ||३१||
सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते |
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ||३२||
लाघवं वेदनाशान्तिर्व्याघेर्वेगपरिक्षयः |
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ||३३||
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये |
रक्तमोक्षणशीलानां न भवन्ति कदाचन ||३४||
अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवणतैलप्रगाढैर्व्रणमुखमवघर्षयेत्, एवं सम्यक् प्रवर्तते ||३५||
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भि र्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा, यथोक्तर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात्, शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत्, क्षारेणाग्निना वा दहेद्यथोक्तं, व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत्; काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत्, एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं; क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात्; उपद्रवांश्च यथास्वमुपचरेत् ||३६||
भवन्ति चात्र-
धातुक्षयात् स्रुते रक्ते मन्दः सञ्जायतेऽनलः |
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ||३७||
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः |
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ||३८||
चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् |
सन्धानं स्कन्दनं चैव पाचनं दहनं तथा ||३९||
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् |
तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् सिराः ||४०||
अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् |
सन्धाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ||४१||
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि |
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ||४२||
शेषदोषे यतो रक्ते न व्याधिरतिवर्तते |
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ||४३||
देहस्य रुधिरं मूलं रुधिरेणैव धार्यते |
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ||४४||
स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले |
शोफं सतोदं कोष्णेन सर्पिषा परिषेचत् ||४५||
इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्याय ||१४||